SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ यदाह - द्वितीयः प्रकाशः । 'वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो उवसंतकसाओ उण वेएइ न संतकम्मं वि । एतस्य च स्थितिः षट्षष्टिः सागरोपमाणि साधिकानि । यदाह--- "दो वारे विजयाइ गयसस तिस्सच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ १ ॥ क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः । क्षयः प्रयोजनमस्य क्षायिकं तच्च साद्यनन्तम् । अत्र चान्तरश्लोकाः मूलं बोधिद्रुमस्यैतत् द्वारं पुण्यपुरस्य च । पोठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥ १ ॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाघ्यते न कैः ॥ २ ॥ अवतिष्ठेत नाज्ञानं जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक् भुवने भानुभासिते ॥ ३ ॥ तिर्यग्नरकयोहर ह्ढा सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखद्वारैककुञ्चिका ॥ ४ ॥ १६५ (१) वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः | उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥ (२) हौ वारान् विजयादिषु गतस्य त्रीणि अच्युतेऽथवा तानि । अतिरेकं नरभविकं नानाजीवानां सर्वाङ्गम् ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy