SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र रुचिर्जिनोततत्त्वेष्विति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् । तथापि ग्रहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाट् देवगुरुधम्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यत्वे देवगुरुधर्माणां क्व तत्त्वेऽन्तर्भावः । उच्यते देवा गुरुवश्च जीवतत्त्वे धर्मः शुभाशवे संवर चान्तर्भवति। सम्यक्त्वं च त्रिधा औपशमिकं क्षायोपशमिकं क्षायिक च। तत्रोपशमो भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानु. बन्धिनां च क्रोधमानमायालोभानामनुदयावस्था। उपशम: प्रयोजनं प्रवर्तकमस्य औपशमिकं तच्चानादिमिथ्यादृष्टे: करण त्रय पूर्वकमान्तौहर्तिकं चतुर्गतिगतस्यापि जन्तीभवतीत्युक्तप्रायम् । यहा उपशमशेण्यारूढस्य भवति । यदाह 'उवसामगसे ढिगयस्म होइ उवसामियं तु सम्मत्तं जो वा अकयतिपुंजी अखवियमिच्छो लहइ मम्मं ॥ १ ॥ क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाश: अनुदितानां चोपशमः । क्षयेण युक्त उपशमः क्षयोपशमः स प्रयोजनमस्य क्षायोपशमिकं तच्च सत्कम्मवेदनाद्देद कमप्युच्यते । औपशमिकं तु सल्क मवेदनारहितमित्यौपशमिक क्षायोपशमिकयो दः । (१) उपशमकश्रेणि गतस्य भवति औपशमिकं तु सम्यक्तम् । यो वाऽकृतत्रिपुञ्जश्च क्षपितमिथ्यो लभते सम्यक ॥ ..
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy