SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अर्हम् द्वितीयः प्रकाशः । हिमाय कल्पत इत्युक्त गृहिधम्मंश्च श्रावकधम्मः स च सम्यक्तमूलानि द्वादशव्रतानि तान्येवाह— सम्यक्तमूलानि पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् ॥ १॥ सम्यक्ङ्खं मूलं कारणं येषां तानि सम्यक्तमूलानि । अणूनि महाव्रतापेक्षया लघूनि व्रतानि अहिंसादीनि पञ्च एतानि मूलगुणाः । गुणास्त्रय उत्तरगुणरूपाः ते च गुणव्रतानि दिखतादीनि त्रीणि । शिक्षणं शिक्षा अभ्यास: शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि तत एव गुणव्रतेभ्यो भेदः । गुणव्रतानि हि प्रायो यावज्जीविकानि । एवं द्वादशवतानि ग्टहमेधिनां श्रावकाणाम् ॥ १ ॥ सम्यक्तमूलानीत्युक्तं तत्र सम्यक्त्वं विभजति— या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्म्मधीः शुद्धा सम्यक्तमिदमुच्यते ॥ २ ॥ या देवे गुरौ धर्मे च वक्ष्यमाणलक्षणे देवत्वगुरुत्वधर्मत्वबुद्धिरयमेव देवो गुरुर्ध इति निश्चयपूर्वा रुचिः श्रद्धानमिति यावत् शुद्दा अज्ञानसंशय विपर्यासनिराकरणेन निम्मेला सा सम्यक्तम् । यद्यपि
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy