SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । १७५ विनयादित्वादिकण् तत्र तिष्ठन्तौति सामायिकस्थाः । सामायिकस्थो हि मूलगुणोत्तरगुणभेदभिवं चारित्रं पालयितुं क्षमः । एतद्यतिमात्रसाधारणलक्षणम् । गुरीस्तु असाधारणलक्षणं धर्मोपदेशका इति धर्म संवरनिर्जरारूपं यतिश्रावकसम्बन्धिभेदभिन्न वा उपदिशन्तीति धर्मोपदेशकाः । यदुक्तमस्माभिरभिधानचिन्तामणी गुरुधर्मोपदेशक इति गृणन्ति सद्भूतं शास्त्रार्थमिति गुरवः ॥ ८॥ अगुरुलक्षणमाह सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ६ ॥ . सर्वमुपदेश्यसम्बन्धिस्त्रीधनधान्यहिरण्यक्षेत्रवास्तुचतुष्पदाधभिलषन्तीत्येवंशोलाः सर्वाभिलाषिणः । तथा सर्व मद्यमधुमासानन्तकायादि भुञ्जत इत्येवंशीलाः सर्वभोजिनः। सह परिग्रहेण पुत्रकलत्रादिना वर्तन्ते सपरिग्रहाः। अत एवाब्रह्मचारिण: अब्रह्मणो महादोषतां कथयितुमब्रह्मचारिण इति पृथगुपन्यासः । अगुरुत्वे असाधारणं कारणमाह। मिष्योपदेशा इति । मिथ्या वितथ प्राप्तोपज्ञोपदेशरहितत्वादुपदेशो धर्मदेशनं येषां ते तथा । न तु नैव एवंविधा गुरव इति। ननु धर्मोपदेशदायित्वं चेदस्ति तदास्तु गुरुत्वं किं निष्परिग्रहित्वादिगुणगवेषणेन ॥ ८ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy