________________
१७६
योगशास्त्रे
इत्याह
परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमौश्वरौकर्त्तुमीश्वरः ॥ १० ॥ परिग्रहस्त्यादिरारम्भो जन्तुहिंसानिबन्धनं सर्वाभिलाषित्व सर्वभोजित्वादिः । ताभ्यां मग्ना भवाब्धौ ब्रुडिताः कथं परानुपदेश्यान् भवाम्भोधेस्तारयेयुस्तारणममर्थाः स्युः । साधकं दृष्टान्तमाह स्वयमित्यादि स्पष्टम् ॥ १० ॥
यदाह
धम्मलक्षणमाह
दुर्गतिप्रपतत्प्राणिधारणाधर्म उच्यते । संयमादिर्दशविधः सर्व्वज्ञोक्तो विमुक्तये ॥ ११ ॥
दुर्गतौ नरकतिर्यग्लक्षणायां प्रपतन्तो ये प्राणिनस्तेषां धारणातोर्धर्म उच्यते । धर्मशब्दार्थोऽयं इदमेव च लक्षणं धम्मंस्य । धत्ते वा नरसुरमोक्षस्थानेषु जन्तूनिति निरुक्ताम्मैः ।
दुर्गतिप्रसृतान् जन्तून् यस्माष्वारयते ततः ।
धन्ते चैतान् शुभे स्थाने तस्माजम्मं इति स्मृतः ॥ १ ॥
स तु वक्ष्यमाणैः संयमादिभिर्भेदैर्दशधा । सर्वज्ञोक्तत्वाद्दिमुक्तये भवति । देवतान्तरप्रणीतस्त्व सर्वज्ञवक्तृकत्वान्न प्रमाणम् । ननु सर्वज्ञोक्तत्वाभावेऽप्यपौरुषेयवचनोपज्ञस्य धर्मस्य प्रामाणिकत्वमस्तु ।