________________
... योगशास्त्रे ततस्तामङ्गलौं स्वर्णशलाकामिव भास्वतीम् । पालोक्य पादयोस्तस्य पेततुः प्रोचतुश्च तौ ॥ ५७ ॥ निरुरूपयिषू रूपं यौ त्वामायातपूर्बिणौ। तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ॥ ५८ ॥ सिद्धलब्धिरपि व्याधिबाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ ५८ ॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥ ६० ॥ एतनिदर्शनमात्रं कफलब्धेः प्रदर्शितम् । लब्धान्तरकथा नीता ग्रन्यगौरवभौरुभिः ॥ ६१॥ योगिनां योगमाहात्मनात्पुरोषमपि कल्पते। रोगिणां रोगनाशाय कुमुदामोदशालि च ॥ ६२ ॥ मलः किल समानातो विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मेको द्वितीयस्तु वपुर्भवः ॥ ६३ ॥ योगिनां योगसम्पत्तिमाहात्मवाहिविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्वरोगिणाम् ॥ ६४ ॥ योगिनां कायसंस्पर्शः सिञ्चत्रिव सुधारसैः। क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ॥ ६५ ॥ नखाः केशा रदाश्चान्यदपि योगिशरीरगम् । भजते भषजीभावमिति सौंषधिः स्मृता ॥ ६६ ॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्तिनाम् । देहास्थिशकलस्तोमः सर्वस्वर्गेषु पूज्यते ॥ ६७ ॥