SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । पत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥ ४७ ॥ चक्रवर्तिश्रियं त्या प्रज्वलत्तृणपूलवत् । अहो सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ४८ ॥ तपोमाहात्मालब्धासु सर्खास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगात्र चिकित्सति ॥ ४ ॥ प्रश्रद्दधानी तहाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ ५० ॥ जचतुश्च महाभाग किं रोगः परिताम्यसि । वैद्यावावां चिकित्सावो विखं खैरेव भेषजैः ॥ ११ ॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । । तदहाय निग्रहोवो रोगानुपचितांस्तव ॥ ५२ ॥ ततः सनत्कुमारोऽपि प्रत्यूचे 'भोचिकित्सको। हिविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ५३ ॥ क्रोधमानमायालोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽनन्तदुःखदाः ॥ ५४॥ तांचिकित्सितमौशी चेावां तर्हि चिकित्मतम् । : पथो चिकित्सथो द्रव्यरोगांस्तहत पश्यतम् ॥ ५५ ॥ ततोऽङ्गुलौं गलत्यामां शीणां स्वकफविपुषा । लिखा शुल्वं रसेनेव द्राक् सुवर्णीचकार सः ॥ ५६ ॥ (१) क च तौ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy