________________
योगशास्त्र
शरीरं श्मथते नाथा रूपं याति न पापधीः । अरा स्फुरति न जानं धिग् स्वरूपं शरीरिणाम् ॥ ३६ ॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसार तरलं सर्व कुशाग्रजलबिन्दुवत् ॥ ३० ॥ अद्यखौनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ॥ ३८॥ इति सनातवैराग्यभावन: पृथिवीपतिः । प्रव्रज्यां खयमादित्सुः सुतं राज्ये न्यवीविशत् ॥ ३८ ॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीत्तपः ॥ ४० ॥ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद्ब्रामं विहरतः समतैकाग्रचेतसः ॥ ४१ ॥ गाढानुरागबन्धेन सर्व प्रकतिमण्डलम् । पृष्ठतोऽगाकरिकुलं महायूथपतेरिव ॥ ४२ ॥ (युग्मं ) निष्कषायमुदासोनं निम्मं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित्तबावर्तत ॥ ४३ ॥ यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य वधिरे सम्पूर्णेयॊहदैरिव ॥ ४४ ॥ कच्छूशोषज्वरखासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः ॥ ४५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपायनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ४६ ॥