________________
प्रथमः प्रकाशः।
नृपः प्रोवाच तो कस्मादृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना विषादमलिनाननौ ॥ २६ ॥ ततस्तावूचतुरिदं सुधामधुरया गिरा। महाभाग मुरावावां सौधम्मस्वर्गवासिनी ॥ २७ ॥ मध्येमुरसभं शक्रश्चक्रे त्वद्रूपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मर्त्य मूत्यागताविह ॥ २८ ॥ शक्रेण वर्णितं यादृक् 'तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ॥ २८ ॥ प्रधुना व्याधिभिरयं कान्तिसवस्वतस्करैः। देहः समन्तादाक्रान्तो निःखासैरिव दर्पण: ॥ ३० ॥ यथार्थमभिधायेति द्रातिरोहितयोस्तयोः । . .. विच्छायं स्वं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ ३१ ॥ । अचिन्तयच्च धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूछां तुच्छबुद्धयः ॥ ३२ ॥ शरीरमन्तरुत्पन्नाधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारु दारुकोटगणैरिव ॥ ३३ ॥ बहिः कथञ्चिद्यद्येतत्परोच्येत तथापि हि । नैयग्रोधं फलमिव मध्ये कमिकुलाकुलम् ॥ ३४ ॥ रुजा लुम्पति कायस्य तत्कालं रूपसम्पदम् । महासरोवरस्येव वारिसेवालवल्लरी ॥ ३५ ॥
___(१) ख ग ताडगेव पुरेक्षितम् ।