________________
योगशास्त्र यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । : .. मिथ्या न खलु भाषन्ते महात्मान: कदाचन ॥ १५ ॥ किं निमित्तमिहायातौ भवन्तौ हिजसत्तमौ। इत्थं सनत्कुमारण पृष्टौ तावेवमूचतुः ॥ १६ ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दूल गीयते ॥ १७ ॥ दूरतोऽपि तदाकणं तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ॥ १८ ॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ततोऽप्येतसविशेषं निरीक्ष्यते ॥ १८ ॥ " जचे सनत्कुमारोऽपि स्मितविस्फुरिताधरः । ... इयं हि कियतो कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ २० ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं हिजोत्तमौ।। यावविवर्त्यतेऽस्माभिरेष मज्जनकक्षण: ॥ २१ ॥ विचित्ररचिताकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काञ्चनम् ॥ २२ ॥ ततोऽवनिपतिः सात्वा कल्पिताकल्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमिवाम्बरम् ॥ २३ ॥ अनुज्ञातौ ततो विप्रो पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं विषयो दध्यतुश्च तौ ॥ २४ ॥ क तद्रूपं क सा कान्तिः क तनावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥ २५ ॥