SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः। राज: सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्याबद्दधानावुभौ सुरौ। विजयो वैजयन्तश्च पृथिव्यामवतरतुः ॥ ५ ॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे। .. प्रासादहारि नृपतेस्तस्यतुर्दास्थसविधौ ॥ ६ ॥ पासीत् सनत्कुमारोऽपि तदा प्रारब्धमज्जनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुहहन् ॥ ७ ॥ हारखो हारपालेन द्विजाती तो निवेदिती। न्यायवर्ती चक्रवर्ती तदानीमप्यवौविशत् ॥ ८॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ। धूनयामासतौलिं चिन्तयामासतुश्च तौ ॥८॥ ललाटपट्टः पर्यस्ताष्टमौरजनिजानिकः । नेत्र कर्णान्तविश्रान्ते जितनीलोत्पलविषी ॥ १० ॥ दन्तच्छदौ पराभूतपक्कबिम्बोफलच्छवी। निरस्तशक्तिको कौँ कण्ठोऽयं पाञ्चजन्यजित् ॥ ११ ॥ करिराजकराकारतिरस्कारकरौ भुजौ। स्वर्णशैलशिलालमोविलुण्याकमुरस्थलम् ॥ १२ ॥ मध्यभागो मगारातिकिशोरीदरसोदरः । किमन्यदस्य सर्वाङ्गालक्ष्मीर्वाचां न गोचरः ॥ १३ ॥ अहो कोऽप्यस्य लावण्यसरित्यूरो निरर्गलः । . येनाभ्यङ्गं न जानोमो ज्योत्स्रयोडुप्रभामिव ॥ १४ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy