SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ३० योगशास्त्रे यथा चिरकालमोलितान्यपौन्धनानि क्षणमात्रप्रचितोऽप्यक्कृशः कशानुर्भस्मसात्करोति । एवं योगः क्षणमात्रेणैव चिरसञ्चितपापसंचयक्षमो भवतीति ॥ ७ ॥ योगस्य फलान्तरमाह कफविप्रुण्मलामर्शसर्व्वैषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ॥ ८॥ महर्द्धिशब्दः प्रत्येकमपि सम्बध्यते । कफ श्लेष्मा विप्रुडुच्चारः पुरोष - मिति यावत् । मल: कर्णदन्तनासिकानयनजिह्वोद्भवः शरीरसन्भवश्च । आमर्शो हस्तादिना स्पर्शः सर्व्वे विण्मूत्र केशनखादय उक्ता अनुक्ताश्च श्रौषधयो योगप्रभावान्महर्डयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः । तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्व्वविषयैस्तेषां लब्धिर्योगस्येदं यौगं ताण्डवडम्बरं 'दर्शितम् । तथाहि योगमाहात्मप्राद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव जायन्ते सर्व्वरुक्छिदः ॥ १ ॥ सनत्कुमारो हि पुरा चतुर्थश्चक्रवर्त्यभूत् । षट्खण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ कदाचिश्च सुधमायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥ ३ ॥ (१) खगच विलसितम् ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy