SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाश: । २८ योगस्यैव माहात्मामाह· योगः सर्वविपदल्लीविताने परशुः शितः । अमूलमन्वतन्वं च कार्मणं नितिश्रियः ॥ ५ ॥ सा विपद आध्यात्मिक-आधिभौतिक आधिदैविकलक्षणाः ताधातिविततत्वाल्लीरूपास्तासां वितान: समूहस्तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिर्मोक्षलक्ष्मयाः परमपुरुषार्थरूपाया मूलमन्वतन्त्रपरिहारण काम्मणं संवननं योगः · काम्भणं हि मूलमन्त्रतन्वैविधीयते। योगस्त मूलादिरहित एव मोक्षलक्ष्मीवशीकरणहेतुरिति ॥ ५ ॥ ... कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदः शक्यः क्रियत इति विपत्कारणपापनिर्घातहेतुत्वं योगस्याहभूयांसोऽपि हि पाप्मान: प्रलयं यान्ति योगतः । चण्डवाताहनघना घनाघनघटा इव ॥६॥ बहन्यपि पापानि योगाप्रलयमुपयान्ति प्रचण्डवातोडूता अतिघना मेघघटा इव ॥ ६ ॥ स्यादेतदेकजन्मोपार्जितं पापं योगः क्षिणुयादपि अनेकभवपरम्परोपात्तपापस्य तु निर्मूलनं योगादसम्भावनीयमित्याहक्षिणोति योगः पापानि चिरकालाजितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशक्षणिः ॥ ७ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy