________________
योगशास्त्रे भट्टारक सुखं तिष्ठ खैरं भ्रम गतोऽस्माहम् । षण्मासान्ते ब्रुवन्नेवं खिन्नः सङ्गमकोऽगमत् ॥ २० ॥ कम्मणैवंविधनायं क्व वराको व्रजिष्यति । न शक्यते तारयितुमस्माभिरपि तारकैः ॥ २१ ॥ एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोहाष्ये मन्थरतारके ॥ १२२ ॥ ३ ॥
एवं देवतां नमस्कृत्य मुक्तिमार्ग योगमभिधित्सुस्तच्छास्त्रं
प्रस्तौति ।
श्रुताम्भोधेरधिगम्य सम्प्रदायाच्च सगुरोः । खसम्वेदनतश्चापि योगशास्त्रं विरच्यते ॥ ४ ॥
इह नानिर्णीतस्य योगस्य पदवाक्यप्रबन्धेन शास्त्रविरचना कर्तुमुचितेति । योगस्य बिहेतुको निर्णय: ख्याप्यते । शास्त्रतो गुरुपारम्पर्य्यात् खानुभवाच्च तं विविधमपि क्रमेणाह। श्रुताम्भोधेः सकाशादधिगम्य निर्णीय योगमिति शेषः । तथा गुरुपारम्पर्ध्यात् तथा स्वसम्वेदनादेवं विधा योगं निश्चित्य तच्छास्त्रं विरच्यते । एतदेव निर्वहणे वक्ष्यति ।
या शास्त्रात्वगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् क्वचित् योगस्योपनिषदिवकिपरिषञ्चेतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥ १ ॥ ४ ॥