SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । श्लथचण्डातकग्रन्थिदृढीकरणलीलया । कापि प्राकाशयद्दापौसनाभिं नाभिमण्डलम् ॥ १० ॥ व्यपदिश्येभदन्ताख्यहस्तकाभिनयं मुहुः । गाढमङ्गपरिष्वङ्गसंज्ञा काचिञ्च निर्ममे ॥ ११ ॥ सञ्चारयन्त्यन्तरीयं नोवोनिविडनच्छलात् । नितम्बबिम्बफलकं काचिदाविरभावयत् ॥ १२ ॥ अङ्गभङ्गापदेशेन वक्षःपीनोन्र्तस्तनम् । सुचिरं रोचयामास काचिद् रुचिरलोचना ॥ १३ ॥ यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् । शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ॥ १४ ॥ दयालुर्यदि वासि त्वं तदानों विषमायुधात् । अकाण्डाक्कष्टकोदण्डादस्मान्न त्रायसे कथम् ॥ १५ ॥ उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किञ्चिन्मात्रं हि तद्युक्तं मरणान्तं न युज्यते ॥ १६ ॥ स्वामिन् कठिनतां मुञ्च पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो माभूः काश्चिदित्युचिरं चिरम् ॥ १७ ॥ एवं गीतातोद्यनृत्तै र्विकारैराङ्गिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगत्प्रभुः ॥ १८ ॥ एवं रात्रौ व्यतीतायां ततो विहरतः प्रभोः । निराहारस्य षण्मासान् सुराधम उपाद्रवत् ॥ १८ ॥ ( १ क च न्दत्यैः ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy