________________
.. योगशास्त्रे जयप्रशस्सिं कामस्य खेताक्षरसहोदरैः । हेमन्तीलिलेखेव प्रत्यौः कुन्दकुड्मलैः ॥ १० ॥ गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरीरचीयत ॥ १ ॥ एवमुजृम्भमाणषु सर्बत्तूंषु समन्ततः । मौनध्वजपताकिन्यः प्रादुरासन् सुराङ्गनाः ॥ २ ॥ सङ्गीतमिव गीतायः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्र मन्त्रास्त्र मिव मान्मथम् ॥ ३ ॥ 'तत्राधिसूत्रितलयं गान्धारग्राम बन्धुरम् । ‘काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः ॥ ४ ॥ क्रमव्युत्क्रमगैस्तानैव्यक्तव्यंञ्जनधातुभिः। । प्रवीणावादयहीणां काचित्सकलनिष्कलाम् ॥ ५ ॥ स्फुटत्तकारधोङ्कारप्रकारैर्मेघनिखनान् । काश्चिञ्च वादयामामुर्मूदङ्गास्त्रिविधानपि ॥ ६ ॥ नभोभूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावनवनवैः काचिदयनरीनृतः ॥ ७ ॥ दृढाङ्गहाराभिनयैः सद्यस्त्रुटितकञ्चुका। बनती नयधम्मिलं दोर्मूलं काप्यदीदृशत् ॥ ८ ॥ दण्डपादाभिनयनच्छलात्कापि मुहुर्मुहुः । चारुगोरोचनागौरमूरुमूलमदर्शयत् ॥ ८ ॥
(१) ख तत्रातिसूलितलयम्।
(२) च सुन्दरम् ।