________________
प्रथम: प्रकाशः। इच्छामात्रेण पूयन्ते यत्न नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ॥ ८८ ॥ अनादिभवसंरूटकम्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ॥ ४० ॥ अशेषमण्डलाधीशमौलिलालितशासनम् । अथवात्रैव यच्छामि साम्राज्यं प्राज्यसद्धिभिः ॥८१ ॥ इत्थं प्रलोभनावाक्यरक्षोभ्यमनसि प्रभौ। अप्राप्तप्रतिवाक्यापः पुनरेवमचिन्तयत् ॥ ८२ ॥ मोघौकतमनेनैतन्मम शक्तिविजृम्भितम् । ... तदिदानीममोघं स्याद्ययेकं कामशासनम् ॥ १३ ॥ यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥ ८४ ॥ इति निश्चित्य चित्तेन निर्दिदेश सुराङ्गमाः। तविभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ॥ ५ ॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कन्दर्पनाटकनटी वसन्तश्रीरशोभत ॥ ६ ॥ मुखवासं सज्जयन्तो विकसनोपरणभिः।। सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत ॥ ८७ ॥ राज्याभिषेके कामस्य मङ्गल्यतिलकानिव । सर्वाङ्ग केतकव्याजात्कुती प्राडाबभौ ॥ १८ ॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोदामां पश्यन्ती शुशुभे शरत् ॥ ८ ॥