________________
२४
योगशास्त्रे
वजसारमनस्कोऽयं बहुधाऽपि कर्थितः । न क्षोभ्यते कथमहं भग्नागूर्यामि तां सभाम् ॥ ७८ ॥ तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥ ७ ॥ अहाय तदयोभारसहस्रघटितं ततः। उद्दधार सुरः शैलं कैलासमिव रावणः ॥ ८ ॥ पृथिवौं सम्पुटीकत्तुं कृतं मन्ये पुटान्तरम् । उत्पत्त्य कालचक्र स प्रचिक्षेपोपरि प्रभोः ॥ ८१ ॥ ज्वालाजालैरुच्छलनिर्दिशः सर्वाः करालयन् । उत्पपात जगत?निल इवार्यवे ॥ २ ॥ कुलक्षितिधरक्षोदक्षमस्यास्य प्रभावतः । । ममज्जाजानुभगवानन्तर्वसुमतीतलम् ॥ ८३ ॥ एवम्भूतोऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ॥ ८४ ॥ कालचक्रहतोऽप्येष प्रपेदे पञ्चतां न यत् । अगोचरस्तदत्राणामुपायः क इहापरः ॥ ८५ ॥ अनुकूलैरुपसर्गः क्षुभ्येद्यदि कथञ्चन । इति बुद्धया विमानस्थः स पुरोऽस्थादुवाच च ॥ ८६ ॥ महर्षे तव तुष्टोऽस्मि सत्वेन तपसौजसा। प्राणानपेक्षभावेनारब्धनिर्वहणेन च ॥ ८७ ॥ पर्याप्तं तपसानेन शरीरलेशकारिणा । ब्रूहि याचख माकार्षीः शतां यच्छामि किं तव ॥ ८८ ॥