________________
प्रथमः प्रकाश: ।
तत्रानासाथ हषदं सूद: सादर ओदने ।
चुल्लीपदे प्रभोः पादौ क्कृत्वा स्थालोमकल्पयत् ॥ ६७ ॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्त्तुर्गिरेरिव दवानलः ॥ ६८ ॥ तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्कणं दारुणक्कणम् ॥ ६८ ॥ पक्कणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्घयोश्च क्षुद्रपक्षिपञ्जराणि व्यलम्बयत् ॥ ७० ॥ खगैथे सुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा च्छिद्रताकीर्णा तत्पश्चरनिभाभवत् ॥ ७१ ॥ तत्राप्यसारतां प्राप्ते पक्कणे पक्कपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ॥ ७२ ॥ अन्तरिक्षे महाष्टक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् ॥ ७३ ॥
सर्व्वतो रोदसीगर्भं भस्त्रापूरं च पूरयन् ।
उत्पाद्योत्पाद्य वातोऽसौ भगवन्तमपातयत् ॥ ७४ ॥ ( युग्मं ) तेनापि खरवातेनापूर्णकामो विनिम्मे ।
२३
युसत्कुलकलङ्गोऽसौ ट्राकुलं कलिकानिलम् ॥ ७५ ॥ भूभृतोऽपि भ्रमयितुमलङ्कमणविक्रमः ।
भ्भ्रमयामास चक्रस्यमृत्पिण्डमिव स प्रभुम् ॥ ७६ ॥ भ्रम्यमाणोऽर्णवावर्त्तेनेव तेन नभखता ।
तदेकतानो न ध्यानं मनागपि जहौ प्रभुः ॥ ७७ ॥