________________
योगशास्त्रे
करणो रेसाकते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥ ५६ ॥ ज्वालाजालाकुलं व्यात्तं व्यायतं वनकोटरम् । अभवदीषणं तस्य वहिकुण्ड मिव ज्वलत् ॥ ५७ ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तभिती भुजौ । अभूच तस्य जजोर तुझं तालट्ठमोपमम् ॥ ५८ ॥ स साहास: फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कर्तृकाभृगगवन्तमुपाद्रवत् ॥ ५८ ॥ तस्मिबपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररूपं क्रुधाघ्रात: शीघ्रं चक्रे स निर्गुणः ॥ १० ॥ अथ पुच्छच्छटाच्छोटः पाटयबिव मेदिनीम् । वूत्कारप्रतिशब्दैश्च रोदसौं रोदयन्निव ॥ ६१ ॥ दंष्ट्राभिर्वजसाराभिनखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि ॥ ३२ ॥ तत्र विच्छायता प्राप्त दवदग्ध इव द्रुमे । सिद्धार्थराजत्रिशलादेव्यो रूपं व्यधत्त सः ॥ ६३ ॥ किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च मास्माकं प्रार्थनामवजीगणः ॥ ६४ ॥ वृद्धावशरणवावां त्यक्तवाबन्दिवईनः । वायखेति वरैर्दीनदीनैय॑लपतां च तौ ॥ ६५ ॥ (युग्म) ततस्तयोर्विलापैरप्यलिप्तमनसि प्रभो । आवासितं दुराचारः स्कन्धावारमकल्पयत् ॥ ६६ ॥