________________
प्रथमः प्रकाशः ।
आशिरः पादमापीय महावीरं महोरगाः । अवेष्टयन्महावृक्षं कपिकच्छुलता इव ॥ ४५ ॥ . प्रजघ्नुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ॥ ४६ ॥ उद्दान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वच्चदशनानाश मूषकानुदपोपदत् ॥ ४७ ॥ स्वाम्यङ्गं खनकाचख्नुर्नखैर्दन्तेर्मुखैः खरैः । मोमूत्रप्रमाणास्तत्रैव क्षते क्षारं निचिचिपुः ॥ ४८ ॥
तेष्वप्यकिञ्चिद्भूतेषु भूतोभूत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥४॥ सोऽधावत्पादपातेन मेदिनों नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्त्रोटयत्रिव ॥ ५० ॥ कराग्रेण गृहीत्वा च दुर्वारेण स वारणः । दूरमुक्तालयामास भगवन्तं नभस्तले ॥ ५१ ॥ विशीर्यं कणशो गच्छत्वसाविति दुराशयः । दन्तावुत्रम्य स व्योम्नः पतन्तं स्म प्रतीच्छति ॥ ५२ ॥ पंतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्जकठिनाव् समुत्तस्युः स्फुलिङ्गकाः ॥ ५३ ॥ न शशाक वराकोऽसौ कर्त्तुं किञ्चिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणों वैरिणोमिव ॥ ५४ ॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं बिभेद सा ।
स्वैरं शरोरनीरेण विषेणेव सिषेच च ॥ ५५ ॥
२१