________________
. योगशास्त्रे । अपनीय ततः पांशु वचतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः साङ्गपीलिकाः ॥ ३४ ॥ प्राविशन्नेकतोऽङ्गेषु स्वैरं निययुरन्यतः । विध्यन्तस्तीक्ष्णतुण्डायैः सूचो निवसनेष्विव ॥ ३५॥ निर्भाग्यस्येव वाञ्छासु मोधीभूतासु तास्वपि। स दंशणन् रचयामास नाकृत्यान्ती दुरात्मनाम् ॥ ३६ ॥ तेषामकप्रहारेण रक्त!क्षीरसोदरैः। क्षरद्भिरभवन्नाथः सनिझर इवाद्रिराट् ॥ ३७॥ तैरप्यक्षोभ्यमाणेऽथ जगनाथ स दुम्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्बिवारा तेलिकाः ॥ ३८ ॥ शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ता: समलक्ष्यन्त रोमाणीव सहोस्थिताः ॥ ३९ ॥ ततोऽप्यविचलच्चित्ते योगचित्ते जगद्गुरौ। स महावृश्चिकांश्चक्रे ध्यानव्रश्चननिश्चयो ॥ ४० ॥ प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणः । तेऽभिन्दन् भगवहेहं ला लाङ्गुरकण्टकैः ॥ ४१ ॥ तैरप्यनाकुले नाथे कूटसङ्कल्पसङ्खलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ॥ ४२ ॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डेस्त्रोटयन्तो मांसखण्डान्यपातयन् ॥ ४३ ॥ तैरप्य कृतकृत्योऽसौ यमदोईण्डदारुणान् । अत्युत्कटफटाटोपान् कोपापायुक्त पन्नगान् ॥ ४४ ॥