________________
प्रथमः प्रकाशः।
१८
१८ अप्येकभुजदण्डेन प्रचण्डाछवलीलया। उदरन्ति सहानेकभूधरां ये वसुन्धराम् ॥ २३ ॥ तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पबसिद्धीनां मर्त्यमानः कियानयम् ॥ २४ ॥ एषोऽहं चालयिथामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ॥ २५ ॥ अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखण्डितम् । माज्ञासौदिति दुर्बुद्धिः शक्रण स उपेक्षितः ॥ २६ ॥ ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकतिर्दुरालोको भयापसरदसराः ॥ २० ॥ विकटोरस्थलाघातपुञ्जितग्रहमण्डल:। स पापस्तत्र गतवान् यत्रासोत्परमेखरः ॥ २८ ॥ निष्कारणजगहन्धुं निराबाधं तथास्थितम् । . श्रौवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥ २८ ॥ गोवाणपांसन: पांशुवृष्टिं दुष्टोऽतनिष्ट सः । अकाण्डघटितारिष्टामुपरिष्ठाजगत्प्रभोः ॥ ३० ॥ विधुर्विधन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांशुपूरेण सर्वाङ्गीसं जगत्प्रभुः ॥ ३१॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांशुभिः । यथा समभवत्स्वामी निश्वासोच्छासवर्जितः ॥ ३२ ॥ तिलमानमपि ध्यानान चचाल जगद्गुरुः ।। कुलाचलचलति किं गजैः परिणतैरपि ॥ ३३ ॥