________________
- योगशास्त्रे समुत्थाय च सर्वाङ्गोदञ्चद्रोमाञ्चकञ्चकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् ॥ १२ ॥ भो भोः सर्वेऽपि सौधम्मवासिनस्त्रिदशोत्तमाः । शृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् ॥ १३ ॥ दधानः पञ्चसमितीर्गमित्रयपवित्रितः। क्रोधमानमायालोभानभिभूतो निरास्रवः ॥ १४ ॥ द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधीः । रुक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः ॥ १५ ॥ अमरैरसुरैयक्षरक्षोभिरुरगैनरैः । त्रैलोक्येनापि शक्येत ध्यानाञ्चालयितुं नहि ॥ १६ ॥ इत्याकर्ण्य वचः शाकं शक्रसामानिकः सुरः ।। ललाटपट्टघटितभृकुटीभङ्गभीषण: ॥ १७ ॥ कम्पमानाधरः कोपालोहितायितलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सङ्गमकोऽवदत् ॥ १८ ॥ मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्दादे प्रभुत्वं तत्र कारणम् ॥ १८ ॥ देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभोः । कथं धार्येत हृदये धृते वा प्रोच्यते कथम् ॥ २० ॥ रुद्धान्तरिक्षः शिखरैर्मूलरुहरसातलः । यैः किलोदस्यते दोणा सुमेरुलॊष्टुलोलया ॥ २१ ॥ सकुलाचलमेदिन्या: मावनव्यक्तवैभवः । येषामेषोऽपि गण्डषसुकरी मकराकरः ॥ २२ ॥