________________
प्रथमः प्रकाशः ।
अनुग्राममनुपुरं विहरन् विभुरन्यदा । दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम् ॥ १ ॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकम्मा पोलासं चैत्यमाविशत् ॥ २ ॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् ।
जामुलम्बितभुजी दरावनतविग्रहः ॥ ३ ॥ स्थिरीकृतान्तःकरणणे निर्निमेषविलोचनः । तस्थौ तत्रैकरात्रिया महाप्रतिमया प्रभुः ॥ ४ ॥ तदां शक्रः सुवर्मायां सभायां परिवारितः । सहस्त्रैश्चतुरशत्या सामानिक दिवौकसाम् ॥ ५॥ त्रयस्त्रिंशस्त्रायस्त्रिंशैः पर्षद्भिस्तिसृभिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतेः प्रकीर्णकैः ॥ ६ ॥ प्रत्येकं चतुरशीत्या सहस्रैरङ्गरक्षकैः । डढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ ७ ॥ सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवोमणैराभिखोग्यैः किल्बिषिकादिभिः ॥८॥ सूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकाईं शक्रः सिंहासने स्थितः ॥ ८ ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तथास्थितम् । उत्थाय पादुके त्यक्वोत्तरासङ्गं विधाय च ॥ १० ॥ जान्व सव्यं भुवि न्यस्य सव्यं च न्यञ्च किञ्चन । शक्रस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः ॥ ११ ॥
३
१७