SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । किञ्च - मेघमुक्तमपि वारि यदङ्गसङ्गमात्त्रान्नदीवाप्यादिगतमपि सर्व्वरोगहरं भवति । तथा विषमूर्च्छिता अपि यदीयाङ्गसङ्गिवातस्पर्धादेव निर्विषा भवन्ति । विषसंपृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति । महाविषव्याधिवाधिता अपि यद्दचः श्रवणमात्राद्यद्दर्शनाच वौतविकारा भवन्ति । एष सर्वोऽपि सर्वौषधिप्रकारः । एते कफादयो महर्द्धिरूपाः । अथवा महर्षयो विभिन्ना एव । वैक्रियालब्धयोऽनेकधा अणुत्व - महत्त्व - लघुत्व- गुरुत्व-प्राप्ति - प्राकाम्यईशित्व - वशित्व - अप्रतिघातित्व-अन्तर्द्धान कामरूपित्वादिभेदात् । अणुत्वमणशरौरविकरणम् । येन बिसच्छिद्रमपि प्रविशति तत्र च चक्रवर्त्तिभोगानपि भुङ्क्ते । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरोरता । गुरुत्वं वञ्चादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रक्कष्टबलैर्दुःसहता । प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्व्वताग्रमपि प्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यमप्सु भूमाविव प्रविशतो गमनशक्तिः तथा अविव भूमावुन्मज्जन निमज्जने । ईशित्वं त्रैलोक्यस्य प्रभुता तौर्थकरत्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्व्वजीववशीकरणलब्धिः । अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्द्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्येवमादयो महर्द्धयः । अथवा प्रकृष्टश्रुतावरणवौर्यान्तरायक्षयोपशमाविर्भूता साधारणमहाप्रन्नर्द्धिलाभा अनधीतद्वादशाङ्गचतुर्द्दशपूर्वा अपि सन्तो यमर्थं चतुर्द्दशपूर्वी निरूपयति
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy