________________
योगशास्त्रे
३८
तस्मिन् विचारक्कच्छ्रेऽप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः । अन्येऽधीतः दशपूर्णा
रोहिणीप्रन्नतादिमहाविद्यादिभिरहुष्टप्रसेनिकाभि रल्पविद्यादिभिश्चोपनतानां भूयसोनामृद्धीनां अवशगा विद्यावेगधारणात् विद्याधरश्रमणाः । केचिद्दोजकोष्ठपदानुसारिबुद्धिविशेषर्द्वियुक्ताः । सुकृष्टवसुमतीकृते क्षेत्रे चित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथानेकबीजकोटीप्रदं भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थबीजानां प्रतिपत्तारो बौजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्गीर्णनामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशावधारितानां श्रतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात्कोष्ठबुद्धयः । पदानुसारिणोऽनुश्रोतः पदानुसारिणः प्रतिश्रोत: पदानुसारिण उभयपदानुसारिगश्च । तत्रादिपदस्यार्थं ग्रन्यं च परत उपश्रुत्य श्राश्रन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयो ऽनुश्रोतः पदानुसारिबुद्धयः । अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादा अर्थग्रन्थविचारपटवः प्रतिश्रोतः पदानुसारिबुद्धयः । मध्यपदस्यार्थं ग्रन्यं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छित्रपदसमूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बोजबुद्धिरेक पदार्थावगमादनेकार्थानामवगन्ता पदानुसारी त्वेकपदावगमात्पदान्तराणामवगन्तेति विशेषः । तथा मनोवाक्कायबलिनः । तत्र प्रकृष्टज्ञानावरणवोर्यान्तरायक्षयोपशमविशेषेण वस्तूद्धृत्यान्तर्मुहूर्त्तेन सकल तो