SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः | ३८ दध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहर्त्तेन सकल श्रुतवस्तूञ्चारणसमर्था वाग्बलिनः । अथवा पदवाक्यालङ्कारोपेतां बाचमुञ्चैरुच्चारयन्तो ऽविरहितवाक्माहोनकण्ठा वाग्बलिनः । वौर्यान्तरायक्षयोपशमाविर्भूतासाधारणकायबलत्वात्प्रतिमयावतिष्ठमानाः श्रमक्लमत्रिरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । तथा क्षीरमधुसर्पिरमृतास्स्रविणो येषां पानपतितं कदन्त्रमपि क्षीरमधुसर्पिरमृतरसवोर्यविपाकं जायते वचनं वा शरोरमानसदुःखप्राप्तानां देहिनां क्षौरादिवत्सन्तर्पकं भवति ते क्षीरास्त्रविणो मध्वास्त्रविणः सर्पिरास्त्रविणोऽमृतास्स्रविणश्च । केचिदक्षीणईियुक्तास्ते च द्विविधा अक्षीणमहानसा अक्षीणयेषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि महालयाच | पात्रपतितमन्त्रं गौतमादीनामिव बहुभ्यो दीयमानमपि न श्रीयते तेऽक्षीणमहानसाः । अक्षीणमहालयर्थिप्राप्ताश्च यत्त्र परिमितभूप्रदेशेऽवतिष्ठन्ते तत्त्रासंख्याता अपि देवास्तिर्यच्चो मनुष्याच सपरिवाराः परस्परबाधारहितास्तीर्थकर पर्षदौव सुखमासते | इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महई यो दर्शिताः । सर्वेन्द्रियाणां विषयान् गृह्णात्येकमपीन्द्रियम् । यत्प्रभावेन सम्भिन श्रोतोलब्धिस्तु सा मता ॥ १ ॥ ८ ॥ तथा चारणाशीविषावधिमनः पर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासि कुमुमश्रियः ॥ ८ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy