________________
४.
- योगशास्त्रे अतिशयचरणाञ्चारणा अतिशयगमनादित्यर्थः । तत्सम्पबलब्धिरित्यर्थः । आशीविषलब्धिर्निग्रहानुग्रहसामर्थम् । अवधिज्ञानलब्धिमूर्त्तद्रव्यविषयं ज्ञानम्। मन:पर्यायज्ञानलब्धिमनोद्रव्यप्रत्यक्षी. करणशक्तिः। एता लब्धयो योगकल्पवृक्षस्य कुसुमभूताः। फलं त केवलज्ञानं मोक्षो वा । भरतमरुदेव्युदाहरणाभ्यां वक्ष्यते । तथाहि
द्विविधाश्चारणा जेया जङ्घाविद्योत्थशक्तितः । तत्राद्या रुचकहोपं यान्त्येकोत्यातलीलया ॥ १ ॥ वलन्तो रुचकद्दोपादेकेनोत्यतनेन ते। नन्दीखरे समायान्ति हितीयेन यतो गताः ॥ २ ॥ से चोर्ध्वगत्यामेकेन समुत्पतनकम्मणा । गच्छन्ति पाण्डुकवनं मेरुशैलशिरःस्थितम् ॥ ३ ॥ ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम्। उत्पातेन हितोयेन प्रथमोत्यातभूमिकाम् ॥ ४ ॥ विद्याचारणास्तु गच्छन्त्येकेनोत्यातकम्मणा । मानुषोत्तरमन्येन होपं नन्दौखराह्वयम् ॥ ५ ॥ तस्मादायान्ति चैकेनोत्यातनोत्पतिता यतः ।
यान्त्यायान्यूडमार्गेऽपि तिर्यग्यानक्रमेण ते ॥ ६ ॥ अन्येऽपि बहुभेदाचारणा भवन्ति । तद्यथा आकाशगामिनः पर्यशावस्थानिषसाः कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमा. हिना व्योमचारिणः । केचित्तु जलजङ्घाफलपुष्पपनश्रेण्यग्निशिखाधूममीहारावश्यायमेघवारिधारामकंटकतन्तुज्योतीरश्मिपवनाद्या