________________
प्रथमः प्रकाशः |
लम्बन गतिपरिणामकुशलाः । जलमुपेत्य वापीनिम्नगासमुद्रादिष्वकायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः । भुव उपरि चतुरङ्गुलप्रमिते आकाशे जङ्घानिक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः । नानाद्रुमफलान्युपादाय फलाश्श्रयप्राण्यविरोधेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणः । नानाद्रुमलतागुल्मपुष्पान्युपादाय पुष्प सूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बन सङ्गगतयः पुष्पचारणाः । नानावृक्षगुल्मवीरुल्लताविताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपनिक्षेपपटवः पत्रचारणाः । चतुर्योजनशतोच्छ्रितस्य निषधस्य नोलस्य चाद्रेष्टङ्गच्छिवां श्रेणिमुपादायोपय्र्यधो वा पादपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणाः । अग्निशिखामुपादाय तेजः कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । धूमवर्त्ति तिरश्चीनामूर्द्धगां वा आलम्बनास्वलितगमनास्कन्दिनो धूमचारणः । नोहारमवष्टभ्याप्कायिकपोडामजनयन्तो गतिमसङ्गमामश्रुवाना नीहारचारणाः । श्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणः । नभोवर्त्मनि प्रविततजलधरपटलप टास्तरणे जीवानुपघातिचङ्कमणप्रभवो मेघचारणः । प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणः । कुनवृक्षान्तरालभाविनभः प्रदेशेषु कुलवृतादिसम्बद्धमर्कट कतन्वालम्बनपादोद्धरणनिचेपावदाता मर्कटकसन्तूनच्छिन्दन्तो यान्तो मर्कटकतन्तुचारणाः । चन्द्रार्क ग्रहनक्षत्राद्यन्यतमज्योतौरश्मि सम्ब
अव
४१