________________
- योगशास्त्रे धेन भुवीव पादविहारकुशलाः ज्योतीरश्मिचारणाः। पवनेबनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवर्त्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासामास्कन्दन्तो वायुचारणा: ।
तपश्चरणमाहात्मयाहुणादितरतोऽपि वा। प्राशीविषाः समर्थाः स्युनिग्रहेऽनुग्रहऽपि च ॥ १ ॥ द्रव्याणि मूर्तिमन्येव विषयो यस्य सर्वतः। नयत्यरहितं ज्ञानं तत्स्यादवधिलक्षणम् ॥ २ ॥ स्यात्मनःपर्ययो ज्ञानं मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ॥ ३ ॥ ऋजुश्च विपुलश्चेति स्यात्मन:पर्ययो विधा। विशुद्धाप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ ४ ॥ ८ ॥
केवलज्ञानलक्षणफलोपदर्शनेन योगमेव स्तौतिअहो योगस्य माहात्म्यं प्राज्यं सामाज्यमुद्दहन् । अवाप केवलज्ञानं भरतो भरताधिपः ॥ १० ॥
अहो इत्याश्चर्ये प्राज्यं पुष्कलं साम्राज्यं चक्रवर्तित्वमुद्दहन्नेव न पुनस्त्यक्तराज्यसम्पत् । भरताधिपः षटखण्डभरतक्षेत्रस्वामी। तथाहि
एतस्यामवसर्पिण्यामकान्तसुषमारके । सागरोपमकोटीनां चतुष्कोटिमिते गते ॥ १ ॥ सागरोपमकोटीनां तिसृभिः कोटिभिर्मिते । परके सुषमानानि दितीयेऽपि गते सति ॥ २ ॥