________________
प्रथमः प्रकाशः ।
४३
तविकोटाकोटिमिते सुषमदुःषमारके। एल्लपाष्टमांशशेषे च दक्षिणाईस्य भारते ॥ ३ ॥ सप्ताभूवन् कुलकरा इमे विमलवाहनः । .. चक्षुष्मांश्च यशस्वी चाभिचन्द्रोऽथ प्रसेनजित् ॥ ४ ॥ मरुदेवश्च नाभिश्च तत्र नाभगुहिण्यभूत् । मरुदेवेति सच्छोलपवित्रितजगत्त्रया ॥ ५ ॥ हतीयारस्य शेषेषु पूर्वलक्षेषु संख्यया ।
चतुरशीतौ सा ष्टमासे वर्षत्रयेऽपि च ॥ ६ ॥ • तस्याश्च कुक्षौ सर्वार्थविमानादवतीर्णवान् । चतुर्दशमहास्वप्नसूचितः प्रथमो जिनः ॥ ७॥ नाभश्च मरुदेव्याश्च तदा सम्यगजानतोः । स्वप्नार्थमिन्द्राः सर्वेऽपि व्याचक्रुः प्रमदोन्मदाः ॥ ८ ॥ ततः सुखेन जातस्य शुभेऽह्नि परमेशितुः । षट्पञ्चाशदिक्कुमार्यः सूतिकम्म प्रचक्रिरे ॥ ८ ॥ मेरुमूट्टि विभुं नीत्वा कृत्वोत्सङ्गे दिवस्पतिः । तीर्थोदकैरभ्यषिञ्चत्स्वं च हर्षायुवारिभिः ॥ १० ॥ वासवेन ततो मातुरर्पितस्य जगदगुरोः । धात्रीकम्माणि साणि विदधुर्विबुधस्त्रियः ॥ ११ ॥ निरीक्ष्य ऋषभाकारं लक्ष्मोरी दक्षिण प्रभोः । चक्रतुः पितरौ नाम ऋषभेति प्रमोदतः ॥ १२ ॥ अमन्दं दददानन्दं सुधारश्मिरिव प्रभुः । त्रिदशाहारयोगेन पोषितो वधे क्रमात् .१३ ॥