SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४४ योगशास्त्र अन्येद्युर्द्युसदामोश उपासितुमुपागतः । अचिन्तयद्भगवतो वंशः क इह कल्पताम् ॥ १४ ॥ अवगत्य तदाकूतमवधिज्ञानतो विभुः । तत्करेक्षुलतां लातुं करोव करमक्षिपत् ॥ १५ ॥ तां समर्प्य जगद्भर्त्तुः प्रणम्य च बिडौजसा । इक्ष्वाकुरिति वंशस्य तदा नाम प्रतिष्ठितम् ॥ १६ ॥ बाल्यं कल्यमिवोल्लङ्घन मध्यन्दिनमिवार्य्यमा । विभुर्विभक्तावयवं द्वितीयं शिश्रिये वयः ॥ १७ ॥ यौवनेऽपि मृदू रक्तौ कमलोदरसोदरौ । उष्णावकम्प्रावस्वेदौ पादौ समतलौ प्रभोः ॥ १८ ॥ नतार्त्तिच्छेदनायेव प्रपेदे चक्रमीशितुः । सदास्थितश्रीकरेणोरिव दामाङ्कुशध्वजाः ॥ १८ ॥ स्वामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शङ्खकुम्भौ तले पार्णी स्वस्तिकश्च विरेजिरें ॥ २० ॥ मांसलो वर्त्तुलस्तुङ्गो भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स इव श्रीवत्सलाञ्छितः ॥ २१ ॥ प्रभोर्निर्वातनिष्कम्पाः स्निग्धदीपशिखोपमाः । नीरन्ध्रा ऋजवोऽङ्गुल्यो दलानीव पदान्नयोः ॥ २२ ॥ नन्द्यावर्ता जगद्भर्तुः पादाङ्गुलितलेष्वभान् । हिम्बानि क्षितौ धम्मप्रतिष्ठाहेतुतां ययुः ॥ २३ ॥ यवाः पर्वस्त्रङ्गुलीनामधोवापीभिराबभुः । उप्ता इव जगन्नक्ष्मीविवाहाय जगत्प्रभोः ॥ २४ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy