________________
प्रथमः प्रकाशः ।
कन्दः पादाम्बुजस्येव पार्णिवृत्तायत: पृथुः । अङ्गुष्ठाङ्गुलिफणिनां फणामणिनिभा नखाः ॥ २५ ॥ हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फो वितैनाते नितान्त स्वामिपादयोः ॥ २६ ॥ प्रभोः पादावुपर्यानुपूर्त्या कूम्भवदुब्रतो। अप्रकासिरौ स्निग्धच्छवी लोमविवर्जिती ॥ २७ ॥ अन्तमग्नास्थिपिशितपुष्कले क्रमवर्तुले । एणीजङ्घाविडम्बिन्यौ जो गौौं जगत्पतेः ॥ २८ ॥ जानुनी खामिनोऽधातां वर्तुले मांसपूरिते। तूलपूर्णपिधानान्तःक्षिप्तदर्पणरूपताम् ॥ २८ ॥ जरू च मृदुलौ स्निग्धावानुपूर्येण पीवरौ। बिभराञ्चक्रतुः प्रौढकदलीस्तम्भविभ्रमम् ॥ ३० ॥ स्वामिनः कुञ्जरस्येव मुष्की गूढी समस्थिती। प्रतिगूढं च पुंश्चिङ्गं कुलीनस्येव वाजिनः ॥ ३१ ॥ तच्चासिरमनिनोच्चमढ़वादीर्घमनथम् ।.... सरलं मृदु निर्लोम वर्तुलं सुरभीन्द्रियम् ॥ ३२ ॥ शोतंप्रदक्षिणावर्त शब्दयुक्तकधारकम् । अबीभत्सावर्ताकारकोशस्थं पिचरं तथा ॥ ३३ ॥ आयता मांसला स्थूला विशाला कठिना कटिः । मध्यभागस्तनुत्वेन कुलिशोदरसोदरः ॥ ३४ ॥ नाभिर्बभार गम्भौरा सरिदावर्तविभ्रमम् । कुक्षी सिग्धौ मांसवन्तो कोमली सरलौ समौ ॥ ३५ ॥