________________
४६
योगशास्त्रे
अधाहक्षःस्थलं स्वर्मशिलापृथुलमुवतम् । श्रीवस्मरत्नपीठाझं श्रीलीलावेदिकाश्रियम् ॥ ३६ ॥ दृढपोनोन्नती स्कन्धौ ककुद्मत्ककुदोपमौ । अल्परोमोनते कक्षे गन्धवेदमलोज्झिते ॥ ३० ॥ पौनौ पाणिफणिच्छनौ भुजावाजानुलम्बितौ । चञ्चलाया नियमने नागपाशाविव श्रियः ॥ ३८ ॥ नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशी। । अखेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ ३८ ॥ दण्डचक्रधनुमत्स्यश्रीवत्सकुलिशाङ्गुणैः । ध्वजाजचामरच्छत्रशलकुम्भाब्धिमन्दरैः ॥ ४० ॥ मकरर्षभसिंहाखरथस्वस्तिकदिग्गजैः। प्रासादतोरणदीपैः पाणी पादाविवादितौ ॥ ४१ ॥ अङ्गुष्ठाङ्गलय: शोणा: सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रो: प्रान्तमाणिक्यपुष्पिताः ॥ ४२ ॥ यवाः स्पष्टमशोभन्त स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य पुष्टिवैशिष्टाहेतवः ॥ ४३ ॥ अङ्गलौमूईसु विभोः सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्ता दक्षिणावर्तशकताम् ॥ ४४ ॥ कृच्छ्रादुद्दरणीयानि जगन्ति त्रीण्यपौत्यभान् । संख्यालेखा इव तिस्रो लेखा मूले करानयोः ॥ ४५ ॥ वालोऽनतिदीर्घश्च लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्ते कण्ठः कम्बु विडम्बनाम् ॥ ४६ ॥