________________
४७
प्रथमः प्रकाशः । विमलं वर्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवापरो लान्छनवर्जितः ॥ ४७ ॥ ममृणौ मांसलौ निग्धी कपोलफलको प्रभोः । दर्पणाविव सौवर्णों वाग्लक्ष्मयोः सहवासयोः ॥ ४८ ॥ अन्तरावर्तसुभगो कर्णो स्कन्धान्तलम्बिती। प्रभोर्मुखप्रभासिन्धुतौरस्थे शक्तिके इव ॥ ४८ ॥ पोष्ठी बिम्बोपमौ दन्ता हात्रिंशत्कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥ ५० ॥ अहवदी, चिबुकं मांसलं वर्तुलं मृदु । मेचकं बहुलं सिग्धं कोमलं श्मश्रु तायिनः ॥ ५१ ॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला। . प्रभोजिह्वानतिस्थूला हादशाङ्गागमार्थसूः ॥ ५२ ॥ अन्तरा कृष्णधवले प्रान्तरक्त विलोचने । नौलस्फटिकशोणाश्ममणिन्यासमये इव ॥ ५३ ॥ ते च कर्णान्तविश्रान्ते कज्जलश्यामपक्षमणी। : विकस्वरे तामरसे निलोनालिकुले इव . ५४ ॥ बिभराञ्चकतर्भर्तुः श्यामले कुटिले ध्रुवी। ... दृष्टिपुष्करिणीतौरसमुद्भिवलताश्रियम् ॥ ५५ ॥ विशालं मांसलं वृत्तं ममृणं कठिनं समम्। भालस्थलं जगङ्गतुरष्टमोसोमसोदरम् ॥ ५६ ॥ . भुवनस्वामिनो मौलिरानुपूर्या समुद्रतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ॥ ५७ ॥