________________
४८
योगशास्त्रे मौलिच्छत्रे महेशस्य जगदीशवशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं शिश्रिये कलशथियम् ॥ ५८ ॥ केशाचकाशिरे मूड़ि प्रभोर्भमरमेचकाः । कुञ्चिताः कोमला: स्निग्धाः कालिन्द्या इव वीचयः ॥५८॥ गोरोचनागर्भगौरी स्निग्धस्वच्छा त्वगाबभौ । वर्णद्रवविलिप्तेव तनौ त्रिजगदीशितुः ॥ ६ ॥ मृदूनि भ्रमरश्यामान्यद्वितीयोहमानि च । बिसतन्तुतनीयांसि लोमानि स्वामिनस्तनौ ॥ ६१ ॥ उत्फुल्लकुमुदामोदः श्वासो विस्रतरत्पलम् । गोक्षीरधाराधवलं रुधिरं च जगत्पतेः ॥ ६२ ॥ इत्यसाधारणैर्नानालक्षणैर्लक्षितः प्रभुः । रत्नै रत्नाकर इव सेव्यः कस्येह नाभवत् ॥ ६३ ॥ अन्येद्युः क्रीडया क्रीडदालभावानुरूपया। मिथो मिथुनकं किञ्चित्तले तालतरोरगात् ॥ ६४ ॥ तदैव दैवदुर्योगात्तन्मध्यानरमूई नि । तडिद्दण्ड इवैरण्डेऽपतत्तालफलं महत् ॥ ६५ ॥ प्रहतः काकतालीयन्यायेनाम्खेव मम्मणि । विपनो दारकस्तत्र प्रथमेनापमृत्युना ॥ ६६ ॥ कालधम्मं गते तस्मिंस्त द्वितीया नितम्बिनी। यूथभ्रष्टा कुरङ्गीव किंकर्तव्यजडाभवत् ॥ ६७ ॥ प्रकाण्डमुहराघातेनेव सेनापमृत्युना । बभूवुर्मूर्छितानीव मिथुनान्यपराण्यपि ॥ ६८ ॥