SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । १४५ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥ ५१॥ अजीर्णे भोजनत्यागी काले भोक्ता च साम्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥ ५२ ॥ यथावदतिथौ साधौ दौने च प्रतिपत्तिकृत्। सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥ ५३ ॥ अदेशाकालयोश्चयां त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ॥ ५४ ॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः ॥ ५५ ॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधमाय कल्पते ॥ ५६ ॥ (दशभिः कुलकम् ) स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूप: सदाचारी न्यायस्तेन सम्पन्न उत्पन्नो विभव: सम्पद्यस्य स तथा । न्यायसम्पनी हि विभव इहलोकहिताय । अशङ्कनीयतया स्वशरीरेण तत्फलभोगामित्रस्वजनादी संविभागकरणाच्च । १८
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy