________________
१४४
योगशास्त्रे
स्वरूपमीरितम् । धातूनामनेकार्थत्वात्प्रतिपादितम् । देशचारित्रं तु केषामित्याह । अगारिणां गृहस्थानां देशत एकदेशविरतिलक्षणम् । किं विशिष्टानामगारिणां यतिधम्मानुरतानां यतिधर्मे सर्वविरतिचारित्ररूप अनुरक्तानां संहननादिदोषादकुर्वतामपि प्रोतिमताम् ।
यदाह
सर्वविरतिलालस: खलु देशविरतिपरिणामः यतिधर्मानुरागरहितानां तु गृहस्थानां देशविरतिरपि म सम्यगिति देशतः स्यादगारिणामित्युक्तम् । तत्र यादृशो गृहस्थो धर्माधिकारो तादृशमुपदर्शयितुं तथाहौत्यनेन प्रस्तावनामाह ॥ ४६ ॥
तथाहीत्युपदर्शने निपातसमुदाय:
न्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः । कुलशौलसमैः साई कृतोहाहोऽन्यगोत्रजैः ॥ ४७॥ पापभीरुः प्रसिद्धं च देशाचार समाचरन् । अवर्मवादी न क्वापि राजादिषु विशेषतः ॥४८॥ अनतिव्यक्त गुप्ते च स्थाने सुप्रातिवैश्मिके । अनेकनिर्गमहारविवर्जितनिकेतनः ॥ ४६ ॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ ५० ॥