SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । १४३ च वृषीपीठादिषक्तयैव समाचार्योपविशेत् । निक्षेपादाने च दण्डाद्युपकरणविषये ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये चंक्रमणं गमनं तदप्यावश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसनिवेशितदृष्टेरप्रमत्तस्य बसस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तं स्थानमूईस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्द - चेष्टापरिहारो यः सा अपरा द्वितीया कायगुप्तिरिति ॥ ४४ ॥ एतासामागमप्रसिद्घ मातृत्वमुपदर्शयतिएताश्चारित्रगावस्य जननात्परिपालनात् । संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः ॥४५॥ एताः संमितिगुप्तयः शास्त्रेऽष्टौ मातर इति प्रसिद्धाः। माढत्वे हेतूनाह। साधूनां सम्बन्धिचारित्रमेव गात्रमङ्ग तस्य जननादभूतस्य प्रादुर्भावनात् जनितस्य च चारित्रगात्रस्य परिपालनासर्वोपद्रवनिवारणेन पोषणेन च वृद्धिनयनात् चारित्रगावस्यैवातिचारमलिनस्य सत: संशोधनाविमलीकरणादिति ॥ ४५ ॥ चारित्रं व्याख्यायोपसंहरतिसर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ॥४६॥ विधा चारित्रं सर्वदेशभेदात् । सर्वात्मना चारित्रं सर्वसावद्ययोगविरतिलक्षणम् । यतीन्द्राणामनगारिश्रेष्ठानामेतन्मूलगुणोत्तरगुण
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy