SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १४२ योगशास्त्र सादयः परोषहा अपि गृह्यन्ते तेषां प्रसङ्गः सन्निपातः। अपि शब्दात्तदभावेऽपि मुनेः साधोः कायः शरीरं तस्योत्सर्गस्त्यागस्तव निरपेक्षतालक्षणस्तं जुषते तत्तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वत: सर्वथा शरीरचेष्टापरिहारो वा यः सा कायगुप्तिः ॥ ४३ ॥ द्वितीयामाहशयनासननिक्षेपादानचंक्रमणेषु यः । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सापरा ॥४४॥ शयनमागमोक्तो निद्राकालः स च रात्रावेव न दिवा। अन्यत्र ग्लानाध्ववान्तवृद्धादेः । तत्रापि प्रथमयामेऽतिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसती संवीक्ष्य प्रमृज्य च भूमि संहत्यास्तीर्य च संस्तरणपट्टकहयमूर्द्धमधश्च कायं सपादं मुखवखिकारजोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपञ्चनमस्कारसामायिकसूत्रः कृतवामबाहपधान आकुञ्चितजानुकः कुक्कुटोवद्दियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकः । उहर्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत। प्रमाणयुक्ता तु वसतिहस्तत्रयप्रमिते भूप्रदेश प्रत्येक सभाजनानां साधनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेश चिकीर्षितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेत् उपविष्टोऽप्याकुञ्चनप्रसारणादि तथैव कुर्बोत वर्षादिषु
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy