________________
१४१
प्रथमः प्रकाशः ।
१४१ वाग्गुप्तिमाहसंज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् ।
वाग्वृत्तः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते॥४२॥ संज्ञा मुखनयनविकाराङ्गल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाः आदिशब्दालोष्टक्षेपोटभावकासितहुङ्कत्तादौनि गृह्यन्ते। संज्ञादोनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलम्बनमभिग्रहः । संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचनप्रच्छनपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तः संवृत्तिर्वाखिनियन्त्रणं द्वितीया वाग्गुप्तिः । आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यम्भाषणं च स्वरूपं प्रतिपादितं भवति भाषासमिती तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्यो दः । यदाहु:समिओ नियमागुत्तो गुत्तो समियत्तणम्मि भयणिज्जो।
कुसलवयमुईरंतो जं वइगुत्तोवि समिओवि ॥ १ ॥ अथ कायगुप्तिः सा च विधा चेष्टानिवृत्तिलक्षणा यथासूत्र चेष्टानियमलक्षणा च ॥ ४२ ॥
तत्राद्यामाहउपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभाव: शरीरस्य कायगुप्तिर्निगद्यते ॥ ४३ ॥ उपसर्गा देवमानुषतियंकृता उपद्रवाः । उपलक्षणत्वात् क्षुत्पिपा