SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १४० योगशास्त्रे ___ यहीयादाददीत निक्षिपेत् स्थापयेत्संवीक्षितप्रतिलिखितभूमौ। सा आदाननिक्षेपसमितिः। भीमो भौमसेन इति 'न्यायादादानसमितिः ॥ ३८ ॥ उत्सर्गसमितिमाह - कफमूत्रमलप्रायं निर्जन्तुजगतीतले। यत्नाद्यदुत्सृजेत्याधुः सोत्सर्गसमितिर्भवेत् ॥४०॥ कफः श्लेष्मा मुखनासिकासञ्चारी मूत्रं प्रश्रवणं मलो विष्ठा प्रायग्रहणादन्यदपि परिष्ठापनायोग्यं वस्त्रपात्रभक्तपानादि गृह्यते । निर्जन्तुस्त्रसस्थावरजन्तुरहिता स्वयं च निर्जन्तुर्या जगतौ तस्यास्तलं स्थण्डिलमित्यर्थः । तत्र यत्नादुपयोगपूर्वकं यदुत्सृजेत्साधुः सोत्सर्गसमितिः । अथ गुप्तौनामवसरः ॥ ४० ॥ तत्र मनोगुप्तिमाहविमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥ ४१ ॥ इह मनोगुप्तिस्त्रिधा । प्रातरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा। शास्त्रानुसारिणो परलोकसाधिका धम्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिईि तोया। कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तोया। ता एतास्तिस्रोऽपि विशेषणत्रयेणाह। विमुक्तकल्पनाजालमिति समत्वे सुप्रतिष्ठितमिति आत्माराम मिति च एवंविधं मनो मनोगुप्तिः ॥ ४१ ॥ (१) ख च न्यायाच्चादानसमितिः ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy