________________
.. प्रथमः प्रकाशः ।
१३८
धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि तदभावे भुञ्जानस्य कारणाभावदोषः ॥ ५ ॥ यदाहउत्पादनोइमैषणाधमांगारप्रमाणकारणतः । संयोजनाच्च पिण्डं शोधयतामषणासमितिः ॥१॥ इति ॥ ३८ ॥
आदाननिक्षेपसमितिमाह
आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपदा यत्सादानसमितिः स्मृता ॥ ३६॥
आसनं विष्टर: आदिशब्दाहस्त्रपात्रफलकदण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा प्रतिलिख्य रजोहरणादिना यत्नत इत्यु पयोगपूर्वकम् । अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह'पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा। देड व पच्चक्वाणं वाएइ सयं पडिच्छ वा ॥ १ ॥ पुढवीआउकाएतेजवाजवणस्मइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहगो भणिो ॥ २ ॥
(१) प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपद कथां वा ।
दाति वा प्रत्याख्यानं वाचयति खयं प्रतीकृति वा॥ (२) पृथिव्यपकायतेजोवायुवनस्पतिनसानाम् ।
मतिलेखनाप्रमत्तः षणामपि विराधको भणितः ॥