________________
१३८
योगशास्त्रे
कल्पिकयोग्यश्चतुर्दशविधो जिनकल्पिकयोग्यश्च हादशविधऔधिक उपधिः । आर्यिकायोग्यश्च पञ्चविंशतिविधः। औपग्रहिकश्च शय्यापीठफलकचर्मदण्डादिरुपलक्षणादेव परिगृह्यते । नह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्मयोरपि जलकणिकाकुलायामनूपभूमौ महाव्रतसंरक्षणं कर्तुं क्षमम् । एतद्दोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषणमेषणा यथागममत्रादेरन्वेषणम् । अत्र “इषोऽनिच्छायाम्” ॥ ५ । ३ । ११२ ॥ इति स्त्रियामनस्तस्या च समितिरेषणासमितिः। इयं गवेषणारूपा एषणाग्रासैषणाप्यनयोरुपलक्ष्यते तस्यां च पञ्च दोषाः । तद्यथा
संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५ तत्र रसलोभाव्यस्य मण्डकादेद्रव्यान्तरेण खण्डतादिना वसतर्बहिरन्तर्वा योजनं संयोजना ॥१॥ धृतिबलसंयमयोगा यावता न सीदन्ति तदाहारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्ततादोषः ॥२॥ स्वादन्न तहातारं वा प्रशंसन् यद्भुते सरागाग्निना चरित्रेन्धनस्याङ्गारीकरणादगारो दोषः ॥३॥ निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाङ्कमो दोषः ॥४॥ क्षुद्देदनाया असहनं क्षामस्य च वैयावृत्त्याकरणमीर्यासमितरविशुद्धिः प्रेक्षोत्प्रेक्षादेः संयमस्य चापालनं क्षुधातुरस्य प्रबलाग्न्युदयात्प्राणप्रहाणशङ्का 'प्रातरोट्रपरिहारेण
(१) ख -द्यातरौद्रपरिहारेण ।