________________
' : योगशास्त्रे
यदाह- .
सर्वत्र शुचयो धीराः स्वकम्मबलगविताः ।
कुकम्मनिहतात्मानः पापाः सर्वत्र शकिताः ॥ १ ॥ परलोकहिताय च सत्पात्रेषु विनियोगाहीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकदयेऽप्यहितायैव । इहलोके हि लोकविरुद्ध कारिणो वधबन्धादयो दोषाः परलोके नरकादिगमनादयः । यद्यपि कस्यचित्यापानुबन्धिपुण्यकर्मवशादैहिकलौकिको विपन्न दृश्यते तथाप्यायल्यामवश्यम्भाविन्येव । यदाह
पापनवार्थरागान्धः फलमाप्नोति यत् क्वचित् ।
बडिशामिषवत्तत्तमविनाश्य न जौर्यति ॥ १ ॥ . न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । यदाह
निपानमिव मण्डूका: सरः पूर्णमिवाण्डजाः । .
शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ॥ १ ॥ विभवत्त्वं च गार्हस्थ्ये प्रधानं कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् ॥ १ ॥
तथा शिष्टाचारप्रशंसकः शिष्यन्ते स्म शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षाः पुरुषविशेषास्तेषामाचारचरितम् ।
यथा---
लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ १॥ इत्यादि ।