________________
. प्रथमः प्रकाशः ।
१४७
तस्य प्रशंसकः ।
यथा
विपद्युच्चैः स्थैर्य पदमनुविधेयं च महतां प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्ययाः सुहृदपि न याच्यस्तनुधन: सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १ ॥ २ ॥ तथा कुलं पिटपितामहादिपूर्वपुरुषवंशः शीलं मद्यमांसनिशाभोजनादिपरिहाररूपः समाचारस्ताभ्यां समास्तुल्याः समकुलशीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशस्तत्र जाता गोत्रजाः तेभ्यो ऽन्येऽन्यगोत्रजास्तैः साई क्कतोहाहो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालहत्य कन्यादानं ब्राह्मयो विवाहः १ विभवविनियोगेन कन्यादानं प्राजापत्यः २ गोमिथुनदानपूर्वकमार्ष: ३ यत्र यज्ञार्थमृविज: कन्याप्रदानमेव दक्षिणा स देवः ४ एते धम्मया विवाहाश्चत्वारः । मातुः पितुबन्धूनां चाप्रामाण्यात्परस्परानुरागण मिथः समवायाहान्धर्व: ५ पणबन्धेन कन्याप्रदानमासुरः ६ प्रसह्य कन्याग्रहणाद्राक्षसः ७ सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८। एते चत्वारोऽप्यधम्मपाः । यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधम्ममा अपि धयाः । शुद्धकलन लाभफलो विवाहः। अशुद्धभार्यादियोगेन नरक एव । तत्फलं वधरक्षणमाचरतः सुजातमुतसन्ततिरनुपहता चित्तनिवृत्तिर्गृहकृत्यमुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं