________________
प्रथमः प्रकाशः ।
१५३ प्रकर्षः पुमाव कदाचिदकल्याणमाप्नोति। एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः ॥ १४ ॥
तथा शृखानस्ताच्छील्येन धर्ममभ्युदयनिःश्रेयसहेतुं शृण्वन् अन्वहं प्रतिदिनं धर्मश्रवणपरो हि 'मनःखेदापनोदादिकमानोति । यदाहकान्तमपोज्झति खेदं तप्तं निर्वाति बुद्दयते मूढम् ।
स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ १ ॥ - प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वाप्रधानमिति श्रवणमात्राईद्विगुणादस्य भेदः ॥ १५ ॥
तथा अजीर्णे अजरणे पूर्वभोजनस्य अथवा अजीर्णे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशीलः। अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कता भवति । यदाह
अजीर्ण प्रभवा रोगा इति ।
अजीणं च लिङ्गतो ज्ञातव्यम् । यदाह
मलवातयोर्विगन्धी विड्भेदो गात्रगौरवमरुच्यम् ।
पविशुद्धश्चोहारः षडजीर्णव्यक्तलिङ्गानि ॥ १ ॥ १६ ॥ तथा काले बुभुक्षासमये भोक्ता अबाद्युपजीवकः । भोक्ते ति
(१) ग छ मनःखेदायनोदनादिकं करोति ।