________________
१५२
योगशास्त्रे
उताञ्च
... आयव्ययमनालोच्य यस्तु वैश्रवणायते ।
अचिरेणैव कालेन सोऽत्र वै श्रमणायते ॥ १ ॥ १२ ॥ तथा वेषो वस्त्रालङ्करणादिभोगः। वित्तं विभव उपलक्षणाहयोऽवस्थादेशकालजात्यादिग्रहः। तदनुसारेण तदानुरूप्येण कुर्वनिति सम्बद्यते । विभवाद्यननुसारेण वेषं कुर्वतो जनोपहसनीयतातुच्छत्वान्यायसम्भावनादयो दोषाः। अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुळवेवेत्यपरोऽर्थः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति सत्यपि वित्ते कुचेलत्वादिधर्मा भवति । स लोकगहितो धर्मेऽप्यनधिकारोति ॥ १३ ॥
तथा अष्टभिर्धीगुणैर्युक्त: धियो बुडेर्गुणाः शुश्रूषादयः । ते त्वमी
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
जहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणा: ॥ १ ॥ तत्र शुश्रूषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । अहो विज्ञातमर्थमवलम्बधान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्तियुक्तिभ्यां विरुद्धादर्थात् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा अहः सामान्यज्ञानमपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगामोहसन्देह विपर्यासव्युदासेन ज्ञानम् । तत्त्वज्ञानमूहापोहविज्ञानविशुद्धमिदमित्थमेवेति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञा