SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ।.. १५१ जात्यपेक्षया यथा-. . ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । कुलापेक्षया यथा चौलुक्यानां मद्यपानम् । गर्हितकम्भकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ॥ ११॥ ___ तथा व्ययो भर्त्तव्यभरणस्वभोगदेवतातिथिपूजनादिप्रयोजने द्रव्यविनियोगः । प्रायः कषिपाशुपाल्यवाणिज्यसेवादिजनितो द्रव्यलाभ: तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह'लाभोचियदाणे लाभोचियभोगे लाभोचियनिहिकरे सिया। आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते । यदाह पादमायाविधिं कुर्यात्पादं वित्ताय खट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥ केचित्त्वाहुः. आयादई नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥ १ ॥ पायानुचितो हि व्ययो रोगमिव शरीरं कशीवत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं कुर्वीत । (१) साभोचितदानं लाभोचितभोगो लाभोचितनिधिकरः स्यात् । .
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy